Srimad Valmiki Ramayanam

Balakanda Sarga 57

Viswamitra becomes Rajarshi !!

|| om tat sat ||

बालकांड
सप्त पंचाश स्सर्गः

ततः संतप्तहृदयः स्मरन् निग्रहमात्मनः ।
विनिश्श्वस्य विनिश्श्वस्य कृतवैरो महात्मना ॥

स॥ ततः महात्मना कृतवैरः आत्मनः निग्रहं ( कृत्वा) विनिश्वस्य विनिश्वस्य स्मरन् संतप्तहृदयः ( अभवत्)

Having become an enemy with a great one, getting hold of himself and sighing repeatedly his heart was heavy with sorrow.

स दक्षिनां दिशं गत्वा महिष्या सह राघव ।
तताप परमं घोरं विश्वामित्रो महत् तपः।
फलमूलाशनो दांतः चकार सुमहत् तपः ॥

स॥ हे राघव ! सः महिष्या सः दक्षिणां दिशं गत्वा परमं घोरं महत् तपः फलमूलाशनो दांतः चकार सुमहत् तपः तताप
||

Oh Raghava ! He travelled south along with his queen , and with fruits and roots as his food he performed severe penance.
अथास्य जज्ञिरे पुत्त्राः सत्य धर्म परायणाः।
हविष्यंदो मधुष्यंदो धृढनेत्रो महारथः ॥

स॥ अथ अस्य पुत्त्राः हविष्यंदो मधुष्यंदो धृडनेत्रो महारथः सत्य धर्म परायणः जज्ञिरे ॥

There he bore sons by name Havishyanda, Madhushyanda, Dhrudhanetra and Maharatha who are dedicated to truth and righteousness.

पूर्णे वर्ष सहस्रे तु ब्रह्म लोक पितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्॥

स॥ सहस्रे वर्ष पूर्णे तु ब्रह्म लोक पितामहः विश्वामित्रं तपोधनं मधुरं वाक्यं अब्रवीत् ॥

After about one thousand years of penance, Brahma the father of the three worlds spoke with Viswamitra in sweet tones.
जिता राजर्षि लोकास्ते तपसा कुशिकात्मज ।
अनेन तपसा त्वांतु राजर्षिः इति विद्महे ॥

स॥ हे कुशिकात्मज ! हे राजर्षि ! ते तपसा लोकाः जिता । त्वां अनेन तपसा राजर्षिः इति विद्महे तु ।

Oh Son of Kusika ! Oh Rajarshi ! With your penance you have won over the worlds. With this penance you will be known as Rajarshi !

एवमुक्त्वा महातेजा जगाम सह देवतैः ।
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वर ॥

स॥ महातेजा लोकानां परमेश्वरः एवं उक्त्वा देवताः सह जगाम ब्रह्मलोकं त्रिवीष्टपं (च) ॥

Then the supremely radiant Brahma went back to the divine world of Brahmaloka along with all other Devas.

विश्वामित्रोपि तत् श्रुत्वा ह्रिया किंचिदवाज्ञ्मुखः ।
दुःखेन महता विष्टः समन्युरिदं अब्रवीत् ॥

स॥ तत् श्रुत्वा विश्वामित्रः अपि किंचिद् ह्रिया अवाज्ञ्मुखः दुःखेन महता विष्टः समन्युः इदं अब्रवीत् ॥

Hearing that Viswamitra felt slighted and with his head hung down, he spoke as follows.

तपश्चतु महत् तप्तं राजर्षिरिति मां विदुः ।
देवस्सर्षिगणास्सर्वे नास्ति मन्ये तपः फलम् ॥

स॥ महत् तपं तपश्चतु देवा ऋषि गणाः सर्वे राजर्षि इति माविदुः । न तपः फलं अस्ति मन्ये॥

"A great penance has been performed. The Devas and Rishis think of me as a Rajarshi only. I feel that I have not obtained the fruit of my penance".

इति निश्चित्य मनसा भूय एव महातपाः।
तपश्चकार काकुत्‍स्थ परमं परमात्मवान् ॥

स॥ हे काकुत्‍स्थ ! महा तपाः इति निश्चित्य भूय एव परमात्मवान् मनसा परमं तपः चकार ॥

'Oh Kakutstha ! That great performer of penance having thought over again undertook rigorous penance with his mind focussed on the Supreme being'.

एतस्मिन्नेव कालेतु सत्यवादी जितेंद्रियः ।
त्रिशंकुरिति विख्याता इक्ष्वाकु कुलवर्धनः ॥

स॥ एतस्मिन्नेव काले त्रिशंकुरिति विख्याता सत्यवादी जितेंद्रियः इक्ष्वाकु कुलवर्धनः (आसीत्) ॥

At the same time there was one Ikshwaku king by name Trisamku , a follower of truth, one who has control of his sensory organs and is well known.

तस्य बुद्धि समुत्पन्ना यजेयमिति राघव।
गछ्छेयं सशरीरेण देवानां परमां गतिम् ॥

स॥ हे आघव ! देवानां परमांगतिं स शरीरं गच्छेयं यजेयं इति तस्य बुद्धिः समुत्पन्ना |

O Raghava ! He thought of performing a sacrifice for going to the abode of Devas along with his body !

स वसिष्ठं समाहूय कथयामास चिंतितम्।
अशक्य मिति चाप्युक्तो वसिष्ठेन महात्मना ॥

स॥ सः वसिष्ठं समाहूय ( तस्य) चिंतितं कथयामास ! महात्मना वसिष्ठेन अशक्यम् इति च उक्तः ॥

He met Sage Vasishta and told him of his desire. Venerable Vasishta told him that it is not possible.

प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।
ततस्तत्कर्म्य सिद्ध्यर्थं पुत्त्रांस्तस्य गतो नृपः ॥
वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे।
त्रिशंकुस्सु महातेजाः शतं परमभास्वरम् ॥

स॥ वसिष्ठेन प्रति आख्यातौ सः दक्षिणां दिशम् ययौ । ततः तत् नृपः त्रिशंकुः सत्कर्म सिद्ध्यर्थं महातेजाः परमभास्वरं तस्य शतं पुत्त्रां वासिष्ठा दीर्घ तपसः तपः यत्र तेपिरे (तत्र) गतः ॥

Having been turned down by Vasishta, he went in southerly direction. To accomplish his desire he went to that place where the highly radiant sons of Vasishta were performing penance for a long time.

वसिष्ठपुत्त्रान् ददृशे तप्यमानान् यशस्विनः।
सोs भिगम्य महात्मनः सर्वानेव गुरो सुतान् ॥

स॥ सः अभिगम्य यशस्विनः सर्वानेव गुरोः सुतान् तप्यमानान् वसिष्ठ पुत्रान् ददर्श ।

The famed king saw the master's sons doing their penance.

अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाज्ञ्मुखः ।
अब्रवीत् महाभागान् सर्वानेव कृतांजलिः ॥

स॥ सर्वानेव महाभागान् अभिवाद्य अनुपूर्वेण ह्रिया किंचिद् अवाज्ञ्मुखुः कृतांजलिः अब्रवीत् ।

Bowing to all the respected ones , with his head hung down and feeling a little ashamed he paid obeisance to all and spoke.

 

शरणं वः प्रपद्येsहं शरण्यान् शरणागतः।
प्रत्याख्यातोस्मि भद्रं वो वसिष्टेन महात्मना ॥

स॥ वः शरण्यान् अहं शरणागतः शरणं प्रपद्ये । भद्रं वो । वसिष्ठेन महात्मना प्रति आख्यातो अस्मि ।

"I am seeking protection from you who can give protection. May all be well with you. My request has been denied by sage Vasishta".

यष्टु कामो महायज्ञं तदनुज्ञातु मर्हथ ।
गुरु पुत्त्रानहं सर्वान् नमस्कृत्य प्रसादये ॥

स॥ महायज्ञं यष्टुं कामः । तत् अनुज्ञातुं अर्हथ । सर्वान् गुरुपुत्त्रान् नमस्कृत्य अहं प्रसादये ।

"I am desirous of performing a great sacrifice. I am seeking your approval. Paying obeisance to all my master's sons I am seeking their permission".

शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्।
ते मां भवंतस्सिद्ध्यर्थं याजयंतु समाहिताः ।
स शरीरो यथाहं हि देवलोकमवाप्नुयाम् ॥

स॥ तपसि स्थितान् ब्राह्मणां शिरसा प्रणतो याचे । ते समाहिताः मां भवंत सिद्ध्यर्थं याजयंतु । यथा अहं स शरीर देवलोकमवाप्नुयाम् ॥

"I am paying respects to the Brahmans who are performing penance. All of you assembled here can fulfill my desire and conduct the sacrifice. I would like to go to heaven along with my body".

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ।
गुरु पुत्त्रान् ऋते सर्वान् नाहं पश्यामि कांचन ॥

स॥ वसिष्ठेन प्रति आख्यातः । सर्वान् गुरुपुत्त्रान् ऋते अन्यां गतिं न अपश्यामि ।

"Vasishta has denied my request. I do not see any other way than approaching you my master's sons!"

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमां गतिं ।
पुरोधसस्तु विद्वांसः तारयंति सदा नृपान् ।
तस्मादनंतरं सर्वे भवंतो दैवतं मम ॥

स॥ सर्वेषां इक्ष्वाकूनां पुरोधाः परमां गतिः | पुरोधसः अस्तु विद्वांसः (ते ) सदा नृपान् तारयंति । तस्मात् अनंतरं सर्वे भवंतः ( एव) दैवतं मम ॥

"For all Ikshwakus the venerable Vasishta is the one to lead the way. The priests are knowledgeable people. They always help out the king. After Vasishta you are all my gods".

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सप्त पंचाश स्सर्गः ॥
||ओम् तत् सत् ||

|| Thus the fifty seventh Sarga of Balakanda in Valmiki Ramayan comes to an end ||

|| om tat sat||